(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.234. अध्यायः 234
Mahabharata - Vana Parva - Chapter Topics
सत्यभामया पतिवशीकरणोपायं पृष्टया द्रौपद्यातदुत्तारदानव्याजेन पतिव्रताधर्मकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-234-0x(2582)(25155)
उपासीनेषु विप्रेषु पाण्डवेषु च भारत।
द्रौपदी सत्यभामा च विविशाते तदा समम् ॥ 3-234-1(25156)
`प्रविश्य चाश्रमं पुण्यमुभे ते परमस्त्रियौ'।
जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः ॥ 3-234-2(25157)
चिरस् दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे।
कथयामासतुश्चित्राः कथाः कुरुयदूचिताः ॥ 3-234-3(25158)
अथाब्रवीत्सत्यभामा कृष्णस् महिषी प्रिया।
सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा ॥ 3-234-4(25159)
केन द्रौपदि वृत्तेन पाण्डवानधितिष्ठसि।
लोकपालोपमान्वीरान्नूनं परमसंमतान् ॥ 3-234-5(25160)
कथं च वशगस्तुभ्यं न कुप्यन्ति च ते शुभे।
तव वश्या हि सतत पाण्डवाः प्रियदर्शने ॥ 3-234-6(25161)
`न चान्योन्यमसूयन्ते कथं वा ते सुमध्यमे'।
मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद्ब्रवीहि मे ॥ 3-234-7(25162)
व्रतचर्या तपो वाऽपि स्नानमन्त्रौषधानि वा।
विद्यावीर्यं मूलवीर्यंजपहोमागदास्तथा ॥ 3-234-8(25163)
ममाद्याचक्ष्वपाञ्चालि यशस्यं भगवेतनम्।
येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः ॥ 3-234-9(25164)
एवमुक्त्वासत्यभामा विरराम यशस्विनी।
पतिव्रता महाभागा द्रौपदी प्रत्युवाच ताम् ॥ 3-234-10(25165)
असत्स्त्रीणां समाचरं सत्ये मामनुपृच्छसि।
असदाचरिते मार्गे कथं स्यादनुकीर्तनम् ॥ 3-234-11(25166)
अनुप्रश्नः संशयो वा नैष त्वय्युपपद्यते।
कथं ह्युपेता बुद्ध्या त्वंकृष्णस् महिषी प्रिया ॥ 3-234-12(25167)
यदैव भर्ता जानीयानमन्त्रमूलपरां स्त्रियम्।
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव ॥ 3-234-13(25168)
उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम्।
न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात् ॥ 3-234-14(25169)
किमत्रप्रहिताश्चापि गदाः परमदारुणाः।
मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः बब 3-234-15(25170)
जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते।
तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम् ॥ 3-234-16(25171)
जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा।
अपुमांसः कृताः स्त्रीभिर्जडान्धवधिरास्तथा ॥ 3-234-17(25172)
पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत।
न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन ॥ 3-234-18(25173)
वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु।
तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि ॥ 3-234-19(25174)
अहंकारं विहायाहं कामक्रोधौ च सर्वदा।
सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम् ॥ 3-234-20(25175)
प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि।
शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी ॥ 3-234-21(25176)
दुर्व्याहृताच्छङ्कमाना दुस्थिताद्दुरवेक्षितात्।
दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि ॥ 3-234-22(25177)
सूर्यवैश्वानरसमान्सोमकल्पान्महारथान्।
सेवे चक्षुर्हणः पार्थानुग्रवीर्यप्रतापिनः ॥ 3-234-23(25178)
देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः।
द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः ॥ 3-234-24(25179)
न भुक्तवति न स्नाते नासंविष्टे च भर्तरि।
न संविशामि नाश्नामि न स्नाये कर्म कुर्वती ॥ 3-234-25(25180)
क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गुहमागतम्।
अभ्युत्थायाभिनन्दामि आसनेनोदकेन च ॥ 3-234-26(25181)
प्रसन्नभाण्डा मृष्टान्ना काले भोजनदायिनी।
संयता गुप्तधान्या च सुसंमृष्टनिवेशना ॥ 3-234-27(25182)
अतिरस्कृतसंभाषा दुःस्त्रियो नानुसेवती।
अनुकूलवती नित्यं भवाम्यनलसा सदा ॥ 3-234-28(25183)
अनर्म चापि हसितं द्वारि स्थानमभीक्ष्णशः।
अवस्करे चिरस्थानं निष्कुटेषु च वर्जये ॥ 3-234-29(25184)
`अत्यालापमसन्तोषं परव्यापारसंकथाः'।
अतिहासातिरोषौ च क्रोधस्थानं च वर्जये ॥ 3-234-30(25185)
निरताऽहं सदा सत्ये पापानां च विवर्जने।
सर्वथा भर्तुरहितं न ममेष्टं कथंचन ॥ 3-234-31(25186)
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित्।
सुमनोवर्णकापेता भवामि व्रतचारिणी ॥ 3-234-32(25187)
यच्च भर्ता न पिबति यच्च भर्ता न सेवते।
यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम् ॥ 3-234-33(25188)
यथोपदेशं नियता वर्तमाना वराङ्गने।
स्वलंकृता सुप्रयता भर्तुः प्रियहिते रता ॥ 3-234-34(25189)
ये च धर्माः कुटुम्बेषु श्वश्र्वामे कथिताः पुरा।
`अनुतिष्ठामि तान्सत्ये नित्यकालमतन्द्रिता' ॥ 3-234-35(25190)
भिक्षाबलिश्राद्धविधिस्थालीपाकाश्च पर्वसु।
मान्यानां मानसत्कारा ये चान्ये विदिता मम ॥ 3-234-36(25191)
तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता।
विनयाननियमांश्चैव सदा सर्वात्मना श्रिता ॥ 3-234-37(25192)
मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः।
स देवः सा गतिर्नार्यास्तस्य का विप्रियं चरेत् ॥ 3-234-38(25193)
पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः।
स देवः सा गतिर्नार्यास्तस्य काविप्रियं चरेत् ॥ 3-234-39(25194)
अहं पतीन्नातिशये नात्यश्ने नातिभूषये।
नापि श्वश्रूं परिवदे सर्वदा परियन्त्रिता ॥ 3-234-40(25195)
अवधानेन सुभगे नित्योत्थिततयैव च।
भर्तारो वशगा मह्यं गुरुशुश्रूषयैव च ॥ 3-234-41(25196)
नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम्।
स्वयं परिचराम्यतां पानाच्छादनभोजनैः ॥ 3-234-42(25197)
नैतामतिशये जातु वस्त्रभूषणभोजनैः।
न वदे चाप्यतिवाचा तां पृथां पृथिवीसमाम् ॥ 3-234-43(25198)
अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा।
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥ 3-234-44(25199)
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः।
त्रिंशद्दासीक एकैको यान्विभर्ति युधिष्ठिरः ॥ 3-234-45(25200)
दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम्।
ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम् ॥ 3-234-46(25201)
तान्सर्वानग्रहारेण ब्राह्मणान्वेदवादिनः।
यथार्हं पूजयामि स्म पानाच्छादनभोजनैः ॥ 3-234-47(25202)
शतं दासीसहस्राणि कौन्तेयस्य महात्मनः।
कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः ॥ 3-234-48(25203)
महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः।
मणीन्हेम च विभ्रत्यो नृत्तगीतविशारदाः ॥ 3-234-49(25204)
तासां नाम च रूपंच भोजनाच्छादनानि च।
सर्वासामेव वेदाहं कर्म चैव कृताकृतम् ॥ 3-234-50(25205)
शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः।
पात्रीपस्ता दिवारात्रमतिथीन्भोजयन्त्युत ॥ 3-234-51(25206)
शतमश्वसहस्राणि दशनागायुतानि च।
युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः ॥ 3-234-52(25207)
एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत्।
येषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च ॥ 3-234-53(25208)
अन्तःपूराणां सर्वेषां भृत्यानां चैव सर्वशः।
आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥ 3-234-54(25209)
सर्वं राज्ञः समुदयमायं च व्ययमेव च।
एकाऽहंवेद्मि कल्याणि पाण्डवानां यशस्विनि ॥ 3-234-55(25210)
मयि सर्वं समासज्यकुटुम्बं भरतर्षभाः।
उपासनरताः सर्वे घटयन्ति वरानने ॥ 3-234-56(25211)
तमहं भारमासक्तमनाधृष्यं दुरात्मभिः।
सुखं सर्वंपरित्यज्यरात्र्यहानि घटामि वै ॥ 3-234-57(25212)
अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम्।
एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम् ॥ 3-234-58(25213)
अनिशायां निशायां च विहाय क्षुत्पिपासयोः।
आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे ॥ 3-234-59(25214)
प्रथमं प्रतिबुध्यामि चरमं संविशामि च।
नित्यकालमहं सत्ये एतत्संवननं मम ॥ 3-234-60(25215)
एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत्।
असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये ॥ 3-234-61(25216)
वैशम्पायन उवाच। 3-234-62x(2583)
तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा।
उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीं ॥ 3-234-62(25217)
अभिपन्नाऽस्मि पाञ्चालि याज्ञसेनि क्षमस्व मे।
कामकारः सखीनं हि सोपहासं प्रभाषितम् ॥ 3-234-63(25218)

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीसत्यभामासंवादपर्वणि चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 234 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-234-1 सममेकत्र। विविशाते तदाश्रममिति ध.पाठः ॥ 3-234-2 जाहस्यमाने परस्परमतिशयेन हसन्त्यौ ॥ 3-234-8 मूलवीर्यं मूलं अप्रच्युतं तारुण्यादि तद्वीर्यम्। अगदोऽञ्जनादिरौषधम् ॥ 3-234-9 भगदैवतमिति झ. पाठः। भगदैवत सौभाग्यवर्धकं सौरव्रतादिकम्। वशानुग इच्छानुसारी ॥ 3-234-11 हे सत्ये अनुकीर्तनमुत्तरम् ॥ 3-234-17 जलोदरः उदररोगः। श्वित्रिणः कुष्ठवन्तः ॥ 3-234-18 उपसृजन्ति दोषैर्योजयन्ति ॥ 3-234-21 प्रणयं ईर्ष्याम्। आत्मानं चित्तम्। आत्मनि स्वस्मिन्। निरभिमाना दर्पहीना ॥ 3-234-22 इङ्गितं अभिप्रायः अध्यासितः क्षिप्तो यस्मिन् कटाक्षो तस्मात् इङ्गिताध्यासितात् ॥ 3-234-23 चक्षुर्हणः दृष्ट्वैव रिपून् घ्नन्ति तादृशान्। सेवे शत्रुहणान्पार्थानिति क. ट. ध. पाठः ॥ 3-234-24 अभिरूपः सुन्दरः ॥ 3-234-28 अतिरस्कृतसंभाषा तिरस्कारशून्यवचना ॥ 3-234-29 अनर्म परिहासहीनम्। हसितं हासः। स्थानं स्थितिम्। अवस्करे तिरस्करोमि। किरतेरिदं रूपम्। निष्कुटेषु गृहारामेषु ॥ 3-234-32 सुमनोवर्णकापेता पुष्पैरनुलेपनैश्च वर्जिता ॥ 3-234-36 मानः पूजा। सत्कार आदरः ॥ 3-234-40 नातिशये नातिक्रमामि। न परिवदे न निन्दामि ॥ 3-234-41 अवधानेन अप्रमादेन। मह्यं मम ॥ 3-234-47 अग्रहारेण वैश्वदेवान्ते प्रथमदेयेनान्नेव ॥ 3-234-52 अनुयात्रं स्वैरयात्रायामपि परिवारभूतम् ॥ 3-234-54 वेदवेद्मि ॥ 3-234-60 संवननं वशीकरणम् ॥ 3-234-63 अभिपन्ना प्रार्थयाना ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.